हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Srimad Bhagavad Gita – श्रीमद्भगवद्गीता contact-sanatanadharm
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

 

Tripurasundari Veda Pada Stava – श्री त्रिपुरसुन्दरी वेदपाद स्तवः


वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।
यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥ १ ॥

अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् ।
सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥ २ ॥

अकारादिक्षकारान्तवर्णावयवशालिनी ।
वीणापुस्तकहस्ताव्यात्प्रणो देवी सरस्वती ॥ ३ ॥

या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।
वाचि नर्तयतु क्षिप्रं मेधां देवी सरस्वती ॥ ४ ॥

उपास्यमाना विप्रेन्द्रैः सन्ध्यासु च तिसृष्वपि ।
सद्यः प्रसीद मे मातः सन्ध्याविद्ये सरस्वती ॥ ५ ॥

मन्दा निन्दालोलुपाहं स्वभावा-
-देतत्स्तोत्रं पूर्यते किं मयेति ।
मा ते भीतिर्हे मते त्वादृशाना-
-मेषा नेत्री राधसा सूनृतानाम् ॥ ६ ॥

तरङ्गभ्रुकुटीकोटिभङ्ग्या तर्जयते जराम् ।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥ ७ ॥

तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः ।
अस्तु मे ललितावासः स्वस्तिदा अभयङ्करः ॥ ८ ॥

कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥ ९ ॥

तत्र वप्रावली लीला गगनोल्लङ्घिगोपुरम् ।
मातः कौतूहलं दद्यात्सग्ंहार्यं नगरं तव ॥ १० ॥

मकरन्दझरीमज्जन्मिलिन्दकुलसङ्कुलाम् ।
महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥ ११ ॥

तत्रैव चिन्तामणिधोरणार्चिभि-
-र्विनिर्मितं रोपितरत्नशृङ्गम् ।
भजे भवानीभवनावतंस-
-मादित्यवर्णं तमसः परस्तात् ॥ १२ ॥

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्ध्या तदक्षरे परमे व्योमन् ॥ १३ ॥

पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥ १४ ॥

नानारत्नगुलुच्छालीकान्तिकिम्मीलितोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥ १५ ॥

पर्यङ्कतल्पोपरि दर्शनीयं
सबाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे
त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ १६ ॥

जटारुणं चन्द्रकलाललामं
उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं
समस्तसाक्षिं तमसः परस्तात् ॥ १७ ॥

तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।
सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥ १८ ॥

चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।
नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥ १९ ॥

शिवे नमन्निर्जरकुञ्जरासुर-
-प्रतोलिकामौलिमरीचिवीचिभिः ।
इदं तव क्षालनजातसौभगं
चरणं नो लोके सुधितां दधातु ॥ २० ॥

कल्पस्यादौ कारणेशानपि त्री-
-न्स्रष्टुं देवि त्रीन्गुणानादधानाम् ।
सेवे नित्यं श्रेयसे भूयसे त्वा-
-मजामेकां लोहितशुक्लकृष्णाम् ॥ २१ ॥

केशोद्भूतैरद्भुतामोदपूरै-
-राशाबृन्दं सान्द्रमापूरयन्तीम् ।
त्वामानम्य त्वत्प्रसादात्स्वयम्भू-
-रस्मान्मायी सृजते विश्वमेतत् ॥ २२ ॥

अर्धोन्मीलद्यौवनोद्दामदर्पां
दिव्याकल्पैरर्पयन्तीं मयूखान् ।
देवि ध्यात्वा त्वां पुरा कैटभारि-
-र्विश्वं बिभर्ति भुवनस्य नाभिः ॥ २३ ॥

कल्हारश्रीमञ्जरीपुञ्जरीतिं
धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।
मूर्तिं ध्यात्वा शाश्वतीं भूतिमाय-
-न्निन्द्रो राजा जगतो य ईशे ॥ २४ ॥

देवतान्तरमन्त्रौघजपश्रीफलभूतया ।
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥ २५ ॥

पुंस्कोकिलकलक्वाणकोमलालापशालिनि ।
भद्राणि कुरु मे मातर्दुरितानि परासुव ॥ २६ ॥

अन्तेवासिन्नस्ति चेत्ते मुमुक्षा
वक्ष्ये युक्तिं मुक्तसर्वैषणः सन् ।
सद्भ्यः साक्षात्सुन्दरीं ज्ञप्तिरूपां
श्रद्धाभक्तिध्यानयोगादवेहि ॥ २७ ॥

षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा ।
कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥ २८ ॥

शान्तो दान्तो देशिकेन्द्रं प्रणम्य
तस्यादेशात्तारकं मन्त्रतत्त्वम् ।
जानीते चेदम्ब धन्यः समानं
नातः परं वेदितव्यं हि किञ्चित् ॥ २९ ॥

त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।
त्वामम्ब न विना किञ्चित्त्वयि सर्वं प्रतिष्ठितम् ॥ ३० ॥

परागमद्रीन्द्रसुते तवाङ्घ्रि-
-सरोजयोरम्ब दधामि मूर्ध्ना ।
अलङ्कृतं वेदवधूशिरोभि-
-र्यतो जातो भुवनानि विश्वा ॥ ३१ ॥

दुष्टान्दैत्यान्हन्तुकामां महर्षीन्
शिष्टानन्यान्पातुकामां कराब्जैः ।
अष्टाभिस्त्वां सायुधैर्भासमानां
दुर्गां देवीग्ं शरणमहं प्रपद्ये ॥ ३२ ॥

देवि सर्वानवद्याङ्गि त्वामनादृत्य ये क्रियाः ।
कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥ ३३ ॥

नाहं मन्ये दैवतं मान्यमन्य-
-त्त्वत्पादाब्जादम्बिके कुम्भजाद्याः ।
ये ध्यातारो भक्तिसंशुद्धचित्ताः
परामृतात्परिमुच्यन्ति सर्वे ॥ ३४ ॥

कुर्वाणोऽपि दुरारम्भांस्तव नामानि शाम्भवि ।
प्रजपन्नेति मायान्तमति मृत्युं तराम्यहम् ॥ ३५ ॥

कल्याणि त्वं कुन्दहासप्रकाशै-
-रन्तर्ध्वान्तं नाशयन्ती क्षणेन ।
हन्तास्माकं ध्यायतां त्वत्पदाब्ज-
-मुच्चतिष्ठ महते सौभगाय ॥ ३६ ॥

तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।
अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥ ३७ ॥

मद्वश्या ये दुराचारा ये च सन्मार्गगामिनः ।
भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥ ३८ ॥

श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं
पौण्ड्रं चापं पुष्पबाणान्दधानाम् ।
बन्धूकाभां भावयामि त्रिनेत्रां
तामग्निवर्णां तपसा ज्वलन्तीम् ॥ ३९ ॥

भवानि तव पादाब्जनिर्णेजनपवित्रताः ।
भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥ ४० ॥

चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।
कारणेशैस्त्रिभिः साकं तद्विश्वमुपजीवति ॥ ४१ ॥

नो वा यागैर्नैव पूर्तादिकृत्यै-
-र्नो वा जप्यैर्नो महद्भिस्तपोभिः ।
नो वा योगैः क्लेशकृद्भिः सुमेधा
निचाय्येमां शान्तिमत्यन्तमेति ॥ ४२ ॥

प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।
सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥ ४३ ॥

बन्धूकाभैर्भानुभिर्भासयन्ती
विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।
लावण्याब्धेः सुन्दरि त्वं प्रसादा-
-दायुः प्रजाग्ं रयिमस्मासु धेहि ॥ ४४ ॥

कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।
त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परा गतिः ॥ ४५ ॥

वाग्देवीति त्वां वदन्त्यम्ब केचि-
-ल्लक्ष्मीर्गौरीत्येवमन्येऽप्युशन्ति ।
शश्वन्मातः प्रत्यगद्वैतरूपां
शंसन्ति केचिन्निविदो जनाः ॥ ४६ ॥

ललितेति सुधापूरमाधुरीचोरमम्बिके ।
तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥ ४७ ॥

ये सम्पन्नाः साधनैस्तैश्चत्तुर्भिः
शुश्रूषाभिर्देशिकं प्रीणयन्ति ।
सम्यग्विद्वान् शुद्धसत्त्वान्तराणां
तेषामेवैतां ब्रह्मविद्यां वदेत ॥ ४८ ॥

अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे ।
तव हुङ्कारसन्त्रस्ता प्रत्यक्कर्तारमृच्छतु ॥ ४९ ॥

जगत्पवित्रि मामिकामपाहराशु दुर्जराम् ।
प्रसीद मे दयाधुने प्रशस्तिमम्ब नः स्कृधि ॥ ५० ॥

कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥ ५१ ॥

भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।
अङ्कुशस्तव तं हन्याद्यश्च नो द्विषते जनः ॥ ५२ ॥

रे रे चित्त त्वं वृधा शोकसिन्धौ
मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै ।
देव्याः पादौ पूजयैकाक्षरेण
तत्ते पदं सङ्ग्रहेण ब्रवीम्योम् ॥ ५३ ॥

चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने ।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥ ५४ ॥

तामेवाद्यां ब्रह्मविद्यामुपासे
मूर्तैर्वेदैः स्तूयमानां भवानीम् ।
हन्त स्वात्मत्वेन यां मुक्तिकामो
मत्वा धीरो हर्षशोकौ जहाति ॥ ५५ ॥

शरणं करवाण्यम्ब चरणं तव सुन्दरि ।
शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥ ५६ ॥

रत्नच्छत्रैश्चामरैर्दर्पणाद्यै-
-श्चक्रेशानीं सर्वदोपाचरन्त्यः ।
योगिन्योऽन्याः शक्तयश्चाणिमाद्या
यूयं पातः स्वस्तिभिः सदा नः ॥ ५७ ॥

दरिद्रं मां विजानीहि सर्वज्ञासि यतः शिवे ।
दूरीकृत्याशु दुरितमथा नो वर्धया रयिम् ॥ ५८ ॥

महेश्वरि महामन्त्रकूटत्रयकलेबरे ।
कादिविद्याक्षरश्रेणिमुशन्तस्त्वा हवामहे ॥ ५९ ॥

मूलाधारादूर्ध्वमन्तश्चरन्तीं
भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते
तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६० ॥

मह्यं द्रुह्यन्ति ये मातस्त्वद्ध्यानासक्तचेतसे ।
तानम्ब सायकैरेभिरव ब्रह्मद्विषो जहि ॥ ६१ ॥

त्वद्भक्तानामम्ब शान्तैषणानां
ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।
पापीयानप्यावृतः स्वर्वधूभिः
शोकातिगो मोदते स्वर्गलोके ॥ ६२ ॥

सन्तु विद्या जगत्यस्मिन्संसारभ्रमहेतवः ।
भजेऽहं त्वां यया विद्वान्विद्ययामृतमश्नुते ॥ ६३ ॥

विद्वन्मुख्यैर्विद्रुमाभं विशाल-
-श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।
चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चि-
-द्विद्धि त्वमेतन्निहितं गुहायाम् ॥ ६४ ॥

न विस्मरामि चिन्मूर्तिमिक्षुकोदण्डशालिनीम् ।
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥ ६५ ॥

चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां
हंसज्योत्स्नापूरहृष्यच्चकोराम् ।
यामाश्लिष्यन्मोदते देवदेवः
सा नो देवी सुहवा शर्म यच्छतु ॥ ६६ ॥

मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।
गृहाण पदमम्बाया एतदालम्बनं परम् ॥ ६७ ॥

का मे भीतिः का क्षतिः किं दुरापं
कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।
तत्त्वातीतामच्युतानन्ददात्रीं
देवीमहं निरृतिं वन्दमानः ॥ ६८ ॥

चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥ ६९ ॥

तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।
तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥ ७० ॥

आकर्णाकृष्टकामासस्त्रसञ्जातं तापमम्ब मे ।
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥ ७१ ॥

कुर्वे गर्वेणापचारानपारा-
-नद्यप्यम्ब त्वत्पदाब्जं तथापि ।
मन्ये धन्ये देवि विद्यावलम्बं
मातेव पुत्रं बिभृतास्वेनम् ॥ ७२ ॥

यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि ॥ ७३ ॥

चक्रं सेवे तारकं सर्वसिध्यै
श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो
यस्मिन्देवा अधि विश्वे निषेदुः ॥ ७४ ॥

सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे ।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥ ७५ ॥

विद्युद्वल्लीकन्दलीं कल्पयन्तीं
मूर्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।
ध्यायन्हि त्वां जायते सार्वभौमो
विश्वा आशाः पृतनाः सञ्जयञ्जयन् ॥ ७६ ॥

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।
अहो पतन्ति निरयेष्वेके चात्महनो जनाः ॥ ७७ ॥

सिन्दूराभैः सुन्दरैरंशुबृन्दै-
-र्लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।
हेरम्बाम्ब त्वां हृदा लम्बते य-
-स्तस्मै विशः स्वयमेवानमन्ते ॥ ७८ ॥

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।
चिदानन्दघनादन्यन्नेह नानास्ति किञ्चन ॥ ७९ ॥

कण्ठात्कुण्डलिनीं नीत्वा सहस्रारं शिवे तव ।
न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः ॥ ८० ॥

त्वत्पादुकानुसन्धानप्राप्तसर्वात्मतादृशि ।
पूर्णाहङ्कृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥ ८१ ॥

तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।
स्वात्मत्वेन जगन्मत्वा ततो न विजुगुप्सते ॥ ८२ ॥

कदा वसुदलोपेते त्रिकोणनवकान्विते ।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥ ८३ ॥

ह्रीमित्येकं तावकं वाचकार्णं
यज्जिह्वाग्रे देवि जागर्ति किञ्चित् ।
को वायं स्यात्कामकामस्त्रिलोक्यां
सर्वेऽस्मै देवाः बलिमावहन्ति ॥ ८४ ॥

नाकस्त्रीणां किन्नरीणां नृपाणा-
-मप्याकर्षी चेतसा चिन्तनीयम् ।
त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं
द्विष्मस्तस्मिन्प्रति मुञ्चामि पाशम् ॥ ८५ ॥

नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।
भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥ ८६ ॥

त्रिकलाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् ।
यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥ ८७ ॥

दारिद्र्याब्धौ देवि मग्नोऽपि शश्व-
-द्वाचा याचे नाहमम्ब त्वदन्यम् ।
तस्मादस्मद्वाञ्छितं पूरयैत-
-दुषा सा नक्ता सुदुघेव धेनुः ॥ ८८ ॥

यो वा यद्यत्कामनाकृष्टचित्तः
स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।
कल्याणानामालयः कालयोगा-
-त्तं तं लोकं जयते तांश्च कामान् ॥ ८९ ॥

साधकः सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।
तथा देव्यात्मनोरैक्यमेतावदनुशासनम् ॥ ९० ॥

हस्ताम्भोजप्रोल्लसच्चामराभ्यां
श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम् ।
श्रीसंम्राज्ञि त्वां सदालोकयेयं
सदा सद्भिः सेव्यमानां निगूढाम् ॥ ९१ ॥

इष्टानिष्टप्राप्तिविच्छित्तिहेतुः
स्तोतुं वाचां क्लुप्तिरित्येव मन्ये ।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं
न चक्षुषा गृह्यते नापि वाचा ॥ ९२ ॥

हरस्वरैश्चतुर्वर्गप्रदं मन्त्रं सबिन्दुकम् ।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥ ९३ ॥

यस्ते राकाचन्द्रबिम्बासनस्थां
पीयूषाब्धिं कल्पयन्तीं मयूखैः ।
मूर्तिं भक्त्या ध्यायते हृत्सरोजे
न तस्य रोगो न जरा न मृत्युः ॥ ९४ ॥

तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते
मौलिश्रेण्या भूभुजस्तं नमन्ति ।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा
तं धीरासः कवय उन्नयन्ति ॥ ९५ ॥

वैरिञ्चोघैर्विष्णुरुद्रेन्द्रबृन्दै-
-र्दुर्गाकालीभैरवीशक्तिसङ्घैः ।
यन्त्रेशि त्वं वर्तसे स्तूयमाना
न तत्र सूर्यो भाति न चन्द्रतारकम् ॥ ९६ ॥

भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः ।
त्वामानम्य समृद्धाः स्युरायो धामानि दिव्यानि ॥ ९७ ॥

पुष्पवत्पुल्लताटङ्कां प्रातरादित्यपाटलाम् ।
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥ ९८ ॥

वश्ये विद्रुमसङ्काशां विद्यायां विशदप्रभाम् ।
त्वामम्ब भावयेद्भूत्यै सुवर्णां हेममालिनीम् ॥ ९९ ॥

वामाङ्कस्थामीशितुर्दीप्यमानां
भूषाबृन्दैरिन्दुरेखावतंसाम् ।
यस्त्वां पश्यन् सन्ततं नैव तृप्तः
तस्मै च देवि वषडस्तु तुभ्यम् ॥ १०० ॥

नवनीपवनीवासलालसोत्तरमानसे ।
शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥ १०१ ॥

भक्त्याभक्त्या वापि पद्यावसान-
-श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।
तस्य क्षिप्रं त्वत्प्रसादेन मातः
सत्याः सन्तु यजमानस्य कामाः ॥ १०२ ॥

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।
आनन्दमादिदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥ १०३ ॥

माधुरीसौरभावासचापसायकधारिणीम् ।
देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥ १०४ ॥

स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥ १०५ ॥

यः पठति स्तुतिमेतां
विद्यावन्तं तमम्ब धनवन्तम् ।
कुरु देवि यशस्वन्तं
वर्चस्वन्तं मनुष्येषु ॥ १०६ ॥

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः ।
तेभ्यो देहि श्रियं विद्यामुद्वर्च उत्तनूबलम् ॥ १०७ ॥

त्वामेवाहं स्तौमि नित्यं प्रणौमि
श्रीविद्येशां वच्मि सञ्चिन्तयामि ।
अध्यास्ते या विश्वमाता विराजो
हृत्पुण्डरीकं विरजं विशुद्धम् ॥ १०८ ॥

शङ्करेण रचितं स्तवोत्तमं
यः पठेज्जगति भक्तिमान्नरः ।
तस्य सिद्धिरतुला भवेद्ध्रुवा
सुन्दरी च सततं प्रसीदति ॥ १०९ ॥

यत्रैव यत्रैव मनो मदीयं
तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं
तत्रैव तत्रैव पदद्वयं ते ॥ ११० ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ त्रिपुरसुन्दरी वेदपाद स्तवः ।


Sri Lalitha Stotras – श्री ललिता स्तोत्राणि

 Lalitha Stotras – श्री ललिता स्तोत्राणि

 

 

 

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.